पृष्ठम्:मनोहरकाव्यमाला.pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 ( १३६ ) यस्य वक्त्रं मृदालिप्तं स्नेहाद्वै चुम्बितं मया ॥ ५३ ॥ तन्मुखं मक्षिकालिङ्गयं पश्ये क्रीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रंकवन्मृतम् ॥ ५४ ।। हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये ॥ ५५ ॥ हा पुत्र हा शिशो वत्स हा कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ ५६ ॥ जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः। जना ऊचु:- का त्वं बालश्च कस्याऽयं पतिस्ते कुत्र तिष्ठति ॥ ५७ ॥ एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्त्वाऽथ सा तन्वी न किंचिद्वाक्यमब्रवीत् ॥ ५८। भूयोऽपि पृष्टा सा तूष्णीं स्तव्धीभूता बभूव ह। विललापाऽतिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ ५६ ॥ अथ ते शंकितास्तस्यां रोमाञ्चिततनूरुहाः । संत्रस्ताः प्राहुरन्योऽन्यमुद्धृतायुधपराणयः ।। ६० ॥ नूनं स्त्री न भवत्येषा यतः किंचिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ ६१ ॥ शुभा चेत्तर्हि किं ह्यत्र निशाधै तिष्ठते वहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ ६२ ।। इत्युक्त्वा तैगृहीता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चाऽपि गलके तथा ॥ ६३ ॥ खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चांडालाय समर्पिता ॥ ६४॥ हे चांडाल वहिर्टणा ह्यस्माभिबार्लघातिनी । वध्यतां वध्यतामेषा शीघ्रं नीत्वा बहिः स्थले ॥६५॥