पृष्ठम्:मनोहरकाव्यमाला.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३६ ) गृहाणेनं ततः खङ्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाऽथ चांडालो राज्ञे खङ्गं न्यवेदयत् ॥ ८ ॥ पुनर्मिलनम्। सूत उवाच- ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥१॥ शिरस्ते च्छेदयिष्यामि हन्तुं शक्नोति चेत्करः। एवमुक्त्वा समुद्यम्य खङ्गं हन्तुं गतो नृपः ॥२॥ न जानाति नृपः पत्नी सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकांक्षती ॥ ३ ॥ स्त्र्युवाच- चांडाल शृणु मे वाक्यं किंचित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नाऽतिदूरे बहिः पुरात् ॥ ४ ॥ तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्य तां पश्चादसिना घातयस्व माम् ॥ ५॥ तेनाऽथ बाढमित्युक्त्वा प्रेषिता वालकं प्रति । सा जगामाऽतिदुःखार्ता विलपन्ती सुदारुणम् ॥६॥ भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि वालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ ७॥ कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याऽविशद् भुवि ॥ ८ ॥ "राजन्नद्य स्ववालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाऽहिना मृतम् ॥ ६॥" तस्या विलापशब्दं तमाकर्ण्य स नराधिपः। शवसन्निधिमागत्य वस्त्रमस्याऽऽक्षिपत्तदा ॥१०॥