पृष्ठम्:मनोहरकाव्यमाला.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४० ) तां तथा रुदती भार्या नाभिजानाति भूमिपः । चिरप्रवाससंतप्तां पुनर्जातामिवाऽबलाम् ॥ ११ ॥ साऽपि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाऽभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ १२ ॥ भूमौ निपतितं वालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ १३ ॥ अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुंगकपोलयुगशोभितम् ॥ १४ ॥ नीलान्केशान् कुञ्चिताग्रान्त्सान्द्रान्दी स्तरंगिणः । राजीव सदृशे नेत्रे श्रोष्ठौ विम्बफलोपमौ ॥ १५ ॥ विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरः सूक्ष्माङ्गुल्यवनीधरः ॥ १६ ॥ मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याऽप्येष कुले शिशुः ॥ १७ ॥ जातो नीतः कृतान्तेन कालपाशाद् दुरात्मना। सूत उवाच- एवं दृष्ट्वाऽथ तं बालं मातुरके प्रसारितम् ॥ १८ ॥ स्मृतिमभ्यागतो राजा हा हेत्यश्रण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ १६ ॥ नीतो यदि च घोरेण कृतान्तेनाऽऽत्मनो वशम् । विचारयित्वा राजाऽसौ हरिश्चन्द्रस्तथा स्थितः ।। २० ।। ततो राशी महादुःखावेशादिदमभाषत । राज्ञ्युवाच- हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ।। २१ ॥ दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ २२ ॥