पृष्ठम्:मनोहरकाव्यमाला.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२४२ ) ततस्तं पतितं दृष्ट्वा शैव्या वैवमचिन्तयत् ॥ ३५ ॥ अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वजनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ३६ ।। तथाऽस्य नासिका तुंगा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ३७ ।। श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः। विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ ३८ ॥ प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षन्ती सा तदाऽपप्तन्मूर्च्छया धरणीतले ॥ ३६ ॥ प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक् त्वां देव ह्यकरुण निर्मर्याद जुगुप्सित ॥ ४० ॥ येनाऽयममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्याग भार्यातनयविक्रयम् ॥ ४१ ॥ प्रापयित्वाऽपि येनाऽद्य चांडालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथाऽपि वा ॥ ४२ ॥ चामर व्यजने वाऽपि कोऽयं विधिविपर्ययः । यस्याऽस्य वजतः पूर्वं राजानो भृत्यतां गतः ॥ ४३ ।। स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्न घटीपटनिरन्तरे ॥४४॥ मृतनिर्माल्यसूत्रांतर्लग्नकेशसुदारुणे । वसानिष्पंदसंशुष्कमहापटलमंडिते ॥ ४५ ॥ भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे । गृध्रगोमायुनादाते पुष्टचद्रविहङ्गमे ।। ४६ ॥ चिताधूमायतपटनीलीकृतदिगन्तरे। कुणपास्वादनमुदासंप्रकृष्टनिशाचरे ॥ ४७॥ चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः ।