पृष्ठम्:मनोहरकाव्यमाला.pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

एवमुक्त्वाऽथ संश्लिष्य कण्ठे राशो नृपात्मजा ॥ ४८ ॥ कष्टं शोकसमाविष्टा विललापार्तया गिरा। राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ ४६॥ तत्कथ्यतां महाभाग मनो वैमुह्यते मम । यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ॥ ५० ॥ तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नाऽऽर्जवं नाऽनृतांशता ॥ ५१ ॥ यत्र त्वं धर्म-परमः स्वराज्यादवरोपितः । सूत उवाच- इति तस्या वचःश्रुत्वा निःश्वस्योष्णं सगद्गदः ॥५२॥ कथयामास तन्वंग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वासा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ ५३ ॥ स्वपुत्रमरणं भीर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथावाक्यं निपपात महीतले ॥ ५४ । मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथ प्राह शैव्या गद्गदया गिरा ॥ ५५॥ कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । खामिद्रोहो न तेऽस्त्वद्य माऽसत्योभव भूपते ॥५६ ॥ माऽसत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूञ्छितः॥ ५७ ॥ क्षणेन चेतनां प्राप्य विललापाति दुःखितः। राजोवाच- कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ ५८ ।। यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच- मया च पूजिता गौरी देवाविप्रास्तथैव च ॥५६॥