पृष्ठम्:मनोहरकाव्यमाला.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४६ ) शकुन्तलोपाख्यानम्। शकुन्तलादर्शनम् । शेष उवाच- दुष्यन्तो नाम राजर्षिश्चन्द्रवंशविभूषणः । पौरवः सुमहातेजा वेदवेदाङ्गपारगाः ॥१॥ धनुर्विद्यासुनिपुणः सर्वराजगुणान्वितः । कन्दर्प इव सौन्दर्ये धैर्ये च तुहिनाचलः ॥२॥ समुद्र इव गम्भीरः कुवेर इव ऋद्धिमान् । प्रतापे वासवसमस्तेजस्वी भानुमानिव ॥३॥ सत्सु स्निग्धो यथा चन्द्रो धर्मतन्त्रे यथा मनुः । स प्रजाः पालयामास नृपः पुत्रानिवौरसान् ॥४॥ कदाचिन्मृगयां राजा स जगाम बलैर्वृतः । रम्यं स्यन्दनमारुह्य नानामणिगणाचितम् ॥५॥ अथारण्ये ददर्शासौ मृगमत्यन्तमूर्जितम् । तमन्वधावद्राजर्षिर्मंगमात्तशरासनः ॥६॥ मृगोऽपि बलवांस्तस्मिन्नत्सवेन महीयसा। धावत्येव ततो राजा बद्धामर्षोऽनुघावति ॥७॥ ततः कण्वाश्रमाभ्यासे मृगं प्रति महाबलः । संदधे शरमत्युग्रं शब्दभेदिनमाशु वै ॥८॥ तं तथा संहितशरं करवशिष्याः सुदूरतः । अब्रुवन्नाश्रममृगो न हन्तव्यो महीपते ॥६॥ तदाश्रममृगेत्येवं कर्णार्द्धमागते स्वरे । संजहार महावाणं पौरवः पौरुषान्वितः ॥१०॥ प्रत्याख्यातसमुद्योगस्तृषार्तः स महीपतिः । तोयमन्वेषयन् कन्या दर्दशाप्सरसां समाः ॥११॥