पृष्ठम्:मनोहरकाव्यमाला.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

मेनकापि च तं गर्भ विमुच्य गहने वने । शकलोकं समापेदे न प्रेक्षत पुनर्नृप ॥२४॥ शकुन्तैरथ गर्भोऽसौ रक्षितः पृथिवीपते । अतः शकुन्तला नाम नृपेयं वरवर्णिनी ॥२५॥ कण्वस्तु सुमहातेजाः कन्यां वीक्ष्य वने स्थिताम् । अनुकम्प्य स्वसुतात्वे कल्पयामास सुन्दरीम् ॥२६॥ मुनिना संभृता कन्या तं तातं मन्यते सदा । सुतां कण्वस्य विद्धीमां मुनिवर्यस्य भूपते ॥२७॥ दुष्यन्त उवाच- सुव्यक्तं राजपुत्रीयं यथा कल्याणि भाषसे । अन्यथा पौरवाणां हि मनो नैवानुरज्यति ॥२८॥ भार्या भवतु सुश्रोणी ममेयं मृगलोचना । सुवर्णमालां वासांसि कुण्डले परिहाटके ॥२६॥ नानापत्तनजे शुभ्र मणिरत्ने च शोभने । श्राहरामि महाभागे निष्कादीन्यतुलानि च ॥ ३० ॥ सर्व राज्यं प्रदास्यामि भार्या भवतु ते सखी । गान्धर्वेण च मां भीरु विवाहेन वृणोतु च । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ ३१ ॥ शकुन्तलोवाच- फलाहारगतो राजन् पिता मे इत आश्रमात् । मुहूर्ते तु प्रतीस्व स मां तुभ्यं प्रदास्यति ॥ ३२॥ राजोवाच- इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ ३३ ॥ श्रात्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि सुव्रते ॥ ३४ ॥