पृष्ठम्:मनोहरकाव्यमाला.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५२ ) अष्टावेव महाभागे विवाहा वेदसम्मताः । ब्राह्मो दैवस्तथार्षत्रच प्राजापत्यस्तथासुरः ॥ ३५॥ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । मनुः स्वायम्भुवो धर्मान् पूर्वपूर्वान् पुराव्रवीत् ॥ ३६॥ प्रशस्तांश्चतुरः पूर्वान् ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्राणां विद्धि धाननिन्दिते ॥ ३७ ॥ राज्ञान्तु राक्षसोऽप्युक्तो विदशूद्रस्यासुरः स्मृतः। पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥ ३८ ॥ पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन । गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । मिश्रो वापि पृथग्वापि कर्तव्यो द्वौ महीभुजाम् ॥ ३६॥ सा त्वं मम सकामस्य सकामा वरवर्णिनी। गान्धर्वेणैव धर्मेण भार्या भवितुमर्हसि ॥ ४० ॥ शकुन्तलोवाच- यदि धर्म पथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो । प्रतिजानीहि सत्यं मे यथा वक्ष्यामि तेऽनघ ॥ ४१ ॥ मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् । युवराजो महाराज सत्यमेतद् ब्रवीमि ते ॥ ४२ ॥ अभिज्ञानञ्च राजेन्द्र देहि स्वमङ्गुरीयकम् । यद्यतदेवं राजेन्द्र अस्तु मे सङ्गमस्त्वया ॥ ४३॥ शेष उवाच- एवमस्त्विति तां राजा प्रत्युवाचाविवारयन् । अयि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥४४॥ तथा त्वर्महा सुश्रोणी सत्यमेतद् ब्रवीमि ते । एवमुक्त्वा स राजर्षिस्तामनिन्दितविग्रहाम् ॥ ४५ ॥