पृष्ठम्:मनोहरकाव्यमाला.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५३ ) जग्राह विधिवत्पाणावुवास च तया सह । विश्वास्य चैनां स प्रायादववीच्च पुनः पुनः॥४६॥ प्रेषयिष्ये च नेतुं त्वां वाहिनी मन्त्रिभिः सह । विभूत्या परयोपेतां नाययिष्यामि सुव्रते ॥ ४७ ॥ इति तस्याः प्रतिक्षाय स नृपो मुनिसत्तम । मनसा चिन्तयन् प्रायाद् दत्त्वा चाप्यङ्गुरीयकम् ॥ ४८ ॥ काश्यपस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं विचिन्तयन्नेव प्राविशन्नगरं नृपः ॥ ४६॥ शापः। एतस्मिन्नन्तरे विप्र कण्वोऽप्याश्रममाश्रयत् । शकुन्तला तु पितरं हिया नोपजगाम तम् ॥१॥ विज्ञायाथ च तां कण्वो दिव्यज्ञानेन मारिष । उवाच भगवान् प्रीतो व्रीडमानां शकुन्तलाम् ॥ २॥ त्वयाद्य भद्रे रहासि मामनाभाष्य यः कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥३॥ क्षत्रियस्य हि गार्न्धवो विवाहः श्रेष्ठ उच्यते । सकामायां सकामस्य निर्मन्त्रो रहसि स्मृतः ॥ ४॥ महात्मासौ महाराजः पुरुवशं प्रदीपनः । यं पतिं प्रतिपन्ना त्वं भजमानं शकुन्तले ॥५॥ ममापि चिन्ता हृद्यासीत्त्वत्प्रदानाय सुन्दरि । ययाहं नियतं दग्धो दावेनेव महाद्रुमः ॥ ६ ॥ वरं त्वत्सदृशं लोके नान्यमालोकयामि ते । तेनायं निश्चितो राजा मयापि सदृशो वरः॥७॥ स यदि स्वयमागत्य त्वामगृहात्करे नृपः।