पृष्ठम्:मनोहरकाव्यमाला.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५४ ) अभ्यर्थनार्थलघुता न ममाभूद्गरीयसी ॥८॥ महात्मा भविता पुत्रस्तव सुभ्रु महाबलः । य इमां भोक्ष्यते कृत्स्नां भूमिं सागरमेखलाम् ॥६॥ स्वनाम्ना ख्यातिमप्यत्र वंशे संजनयिष्यति । परं चाभिगतस्यास्य चक्रं नाम महात्मनः । भविष्यत्यप्रतिहतं नियतं चक्रवर्तिनः ॥ १०॥ शेष उवाच- ततः प्रक्षाल्य पादौ सा सन्निधाय फलानि च । उपविष्टं गतश्रान्तिमब्रवीत्तं शुचिस्मिता ॥ ११ ॥ यो मयासौ वृतो राजा पौरवः पुरुषोत्तमः । स त्वयानुमतो यस्मात्कृतार्थास्मि पितः प्रभो । प्रसादं कुरु तस्यापि सामात्यस्य महीपतेः॥ १२ ॥ कराव उवाच- प्रसन्न एव तस्याहं पूर्वमेव शुचिस्मिते । ब्रह्मण्यः पौरवो राजा धर्मात्मा च विशेषतः ॥ के ददामि वरं तस्मै वहि कल्याणि माचिरम् ॥ १३ ॥ शेष उवाच- ततो धर्मिष्ठतां वने राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुष्यन्तहितकाम्यया ॥ १४ ॥ परेऽहनि मुनौ याते विरहेण शकुन्तला । न लेभे मनसः शान्तिं चिन्तयन्ती महीपतिम् ॥ १५ ॥ क्षणं निश्वासबहुला सुष्वाप धरणीतले । लिलेख च नखेन मां नाललाप सखीजनैः ॥ १६ ॥ क्षणं विलोकयामास दिगन्तान् लोललोचना । ध्यायन्ती जगतीनाथं क्षण प्राप्तमनोरथा ॥ १७ ॥ एतस्मिन्नन्तरे विप्र दुर्वासास्तपसा ज्वलन् ।