पृष्ठम्:मनोहरकाव्यमाला.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५५ ) आजगामाश्रमपदं कण्वस्य द्विजसत्तम ॥ १८ ॥ दूरादुच्चैर्वभाषेऽथ केयं पर्णोटजे स्थिता । विलोकयतु मां प्राप्तमतिथिं भोजनार्थिनम् ॥ १६ ॥ इत्युच्चैर्मुहुराभाष्य न प्राप्यातिथि सक्रियाम् । तपोधनश्चुकोपाशु शशाप क्रोधनो मुनिः ॥ २० ॥ यं त्वं चिन्तयसे बाले मनसाऽनन्यवृत्तिना। विस्मरिष्यति स त्वां वै अतिथौ मौनशालिनीम् ॥ २१ ॥ इत्येवमुक्ते वचने क्रोधाद् दुर्वाससा तदा । सखी प्रियंवदा नाम शुश्राव क्रोधभाषितम् ॥ २२ ॥ त्वरयाथ समागम्य पाद्यादिकृतसञ्चया। प्रसादयामास मुनि मूर्ध्ना तच्चरणं गता ॥ २३ ॥ प्रियंवदोवाच- पौरवस्य इयं राज्ञी दुष्यन्तस्य महीभृतः । विश्वामित्रात्मजा वाला मेनकाप्सरसः सुता ॥ २४ ॥ कण्वस्य दुहिता चेयं पालनात्सुपतिव्रता । चिन्तयन्ती पति मुग्धा विरहेण सुविह्वला ॥ २५ ॥ न किश्चिदभिजानाति न भवांस्तेन सत्कृतः । नावज्ञानान्न गर्वाच्च तद् भवान् क्षन्तुमर्हति ॥ २६ ॥ यया न विस्मरेद्राजा शापान्तं कुरु तापस । ततः प्रसन्नो दुर्वासाः प्राह शापान्तकारणम् ॥ २७ ।। विस्मृतिस्तस्य राजर्षेस्तावदेव भविष्यति । प्रियंवदे नृपो यावदभिज्ञानं न पश्यति ॥ २८ ॥ इति कृत्वा स शापान्तं गृहीत्वा सत्कियां ययौ । अथ तस्यास्तदा गर्भो राजर्षेस्तेजसा भृतः ॥ २६ ॥ शशीव विशदे पक्षे वर्द्धते स्म दिने दिने । कण्वोऽपि भगवान् दष्ट्वा दोहदं समुपस्थितम् ॥ ३० ॥