पृष्ठम्:मनोहरकाव्यमाला.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५६ ) मुदा परमया युक्तः पृष्ट्वाभिलाषेतं हितम् । उवाच भगवान्कण्वो मुनिमण्डलमध्यगाम् ॥ ३१ ॥ - 0:0;.-- दुष्यन्तपुर-प्रेषणम् । कराव उवाच कन्या पितृगृह नैव सुचिरं वासमर्हति । लोकापवादः सुमहान् जायते पितृवेश्मनि ॥ १ ॥ नार्याः पतिर्गतिर्भर्ता तपश्च परमं पतिः । दैवतं गुरुरायश्च पतिः स्त्रीणां परं पदम् ॥ २॥ यं प्रसोप्यसि देवि त्वं भविता स महाबलः । राजपुत्रो वने स्थास्यत्ययं नाप्युचितो विधिः ॥ ३ ॥ अतस्त्वां प्रेषयिष्यामि निकटं तस्य भूभृतः पत्युः प्रेमा हि नारीणां परं सौभाग्यमुच्यते ॥ ४॥ शकुन्तलोवाच पितस्तेऽनुगृहीतास्मि पतिदर्शनवार्तया । नानुशां प्रार्थये तुभ्यं स्नेहभङ्गभयात्तव ॥ ५ ॥ तदद्यैव गमिष्यामि राजर्षेस्तस्य चान्तिकम् । अनुशां देहि मे तात कृपया तापसोत्तम ॥ ६॥ तच्छुत्वा भगवान् कण्वः स्नेहप्रसवविप्लुतः । अनुज्ञाप्य मुनीनन्यान्मुनिपत्नीश्च सुव्रताः ॥ ७॥ उवाच परया प्रीत्या प्रेषयामि शकुन्तलाम् । भर्तुर्ग्रहाय कल्याण्याः कल्याणं कुरुत ध्रुवम् ॥ ८ ॥ ताश्च वाक्यं मुनेः श्रुत्वा प्रेमाश्रुक्लिन्नलोचनाः । श्राशीभिरनुकूलाभिः प्रायुञ्जन्त शकुन्तलाम् ॥ ६॥ विचित्रैरप्याभरणैः केशवन्धादिभिस्तथा । गात्रोद्वर्तनसंमार्ष्टिहरिद्रातैलसङ्गतैः ॥ १० ॥