पृष्ठम्:मनोहरकाव्यमाला.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५८ ) प्रियंवदा नु तद्गुह्य वसनाञ्चलमध्यतः । यावन् न्यस्तवती तावत् पपात सलिले द्विज ॥ २४ ॥ प्रियंवदा भिया तस्यै वृत्तान्तं न न्यवेदयत् । शकुन्तलापि तत्सख्यै पप्रच्छापि न विस्मृता ॥ २५॥ ततः स्नात्वा च ते सर्वे समाप्य विधिवक्रियाम् । दुष्यन्तपुरमापेदुस्तास्त्रियस्तौ च तापसौ ॥ २६ ॥ -:0:0:-- दुष्यन्त-पुरम्। राजद्वारं समासाद्य करवशिष्यौ महामते । ऊचतुस्तौ प्रतीहारं तूर्णं राज्ञे निवेदय ॥१॥ काष्यपस्य निदेशेन राजद्वारमिहागतौ । शिष्यौ तस्य सार्ङ्गवर शारद्वतसमाह्वयौ ॥२॥ सुता तस्य च कल्याणी द्वे अन्ये च द्विजस्त्रियौ । प्रतीहारस्ततो गत्वा राज्ञे सर्व न्यवेदयत् ॥ ३॥ राजा पुरोधस प्राह गौतमं हृदि चिन्तयन् । कथमेतौ मुनेः शिष्यौ स्त्रीभिरेताभिरावृतौ ॥ ४ ॥ आगताविह संप्राप्तौ भवानेव हि पृच्छतु । किं कण्वास्याश्रमे कश्चिद्राक्षसः कुरुतेऽनयम् ॥५॥ न जानाति हि दुष्टात्मा दुष्यन्तं राक्षसान्तकम् । किं वने पशवस्त्यक्त्वा नियमं मुनिना कृतम् ॥ ६॥ वाधन्ते व्याघ्रसिंहाद्याः स्त्रियो वालान् जरायुतान् । मृगयापि मया तावन्न कृता पुरवासिना ॥ ७ ॥ किं वा वन्यफलान्यद्य प्रभवन्ति न कानने । तेनाहारविनाभावादःखितास्ते तपोधनाः ॥ ८ ॥ यदद्य पतितं घोरं मुनीनां दुःखकारणम् । विधुनोमि तदद्यैव याहि पृच्छ तपोधनौ ॥ ६ ॥