पृष्ठम्:मनोहरकाव्यमाला.pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५६ ) पाद्यादीनि पुरस्कृत्य विधायातिथिसत्क्रियाम् । वासयस्व मुनी विप्र स्वगृहे ताः स्त्रियस्तथा ॥१०॥ चेद्विशेषविवक्षापि तयोरस्ति विवुध्य तत् । विज्ञापयिष्यसि पुनस्तद्विवार्य करोम्यहम् ॥ ११ ॥ शेष उवाच- इति तद्वाक्यमादाय पुरोधाः स तपोधनः । पाद्यादीनि पुरस्कृत्य द्वारमागतवान् द्विज ॥ १२ ॥ राज्ञोक्तं सर्वमाचष्टे ददर्श च शकुन्तलाम् । अन्तःसत्त्वां महाभागां शिरः प्रच्छाद्य वाससा । अधोमुखीं चन्द्रकलामिव दीप्तिमतीं पुरः ॥ १३ ॥ पप्रच्छ च मुनी केयं सुन्दरी जगदद्भुता । अन्तःसत्त्वेव कल्याणी लज्जयाधोमुखी स्थिता ॥ १४ ॥ शिष्यावूचतुः- विश्वामित्रसुता चेयं मेनकागर्भसंभवा । करवेन पालिता राज्ञी दुष्यन्तस्य महीपतेः ॥ १५ ॥ सेयं संप्रेषिता ब्रह्मन् कण्वेन नृपमन्दिरम् । अस्यैव भूपतेस्तेजो विभ्रती मृगलोचना ॥ १६ ॥ राशे निवेदयत्वस्मै तद् भवांस्त्वरया द्विज । नेयं राझी द्वारदेश स्थातुमर्हा महीपतेः ॥ १७ ॥ शेष उवाच- पुरोधास्तदुपर्कण्य संभ्रमेण महीपतिम् । गत्त्वा निवेदयामास वृत्तान्तं मुनिभाषितम् ॥ १८ ॥ दुष्यन्तस्तदुपश्रुत्य विस्मृत्तिं परमां गतः । उवाच ब्राह्मणं ब्रह्मन् वचसा कटुना नृपः ॥ १६ ॥ नैवं स्मरति मञ्चेतः कुत्र का मे विवाहिता। गणिका कापि विप्रेन्द्रछलेन समुपागता ॥ २०॥