पृष्ठम्:मनोहरकाव्यमाला.pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

गौतम उवाच- न तथा दृश्यते राजन्नन्तःसत्त्वा वरानना । अनुजानीहि राजेन्द्र त्वदन्तिकमुपानये ॥ २१ ॥ विलोकय परं रूपं यदि ते स्मृतिरुद्भवेत् । प्रवेशनीया शुद्धान्ते नारी श्रीरिव रूपिणी स्थातुर्महा न च द्वारि द्योतयन्ती दिशस्त्विषा ॥ २२ ॥ यदि नापि स्मृतिस्त स्यात्तद्रूपं तु तथापि ते । विलोक्य भविता नान्यरूपदर्शनलालसा ॥ २३ ॥ इति राज्ञानुनीतेनाभ्यनुज्ञातो द्विजोत्तमः। आनाययामास मुनी ताः स्त्रियश्च सुलक्षणाः ॥ २४ ॥ प्राशीभिरनुयोज्याथ कण्वशिष्यो महामती । ऊचतुः कण्वसन्देशं निपाण्णौ जगतीपतिम् ॥ २५ ॥ शिष्यावूचतुः- त्वमाशिषा वर्द्धयित्वा प्राह त्वामावयोर्गुरुः । तच्छृणुष्व महाराजानन्तरं कर्तुमर्हसि ॥ २६ ॥ इयं शकुन्तला नाम विश्वामित्रसुतानघ । मेनकासंङ्गमाज्जाता पालिता दुहिता मम ॥ २७ ॥ मृगयाचारिणारण्ये गान्धर्वेण महीपते । विधिना यद्गृहीताभून्ममानुज्ञां विनापि हि ॥ २८ ॥ तत्साधुरिति तं मन्ये क्षत्रियाणामयं विधिः । तव सा विभ्रती तेजो वस्तुं नार्होटजे मम ॥ २६ ॥ महिषी राजराजस्य साक्षात् श्रीरिवरूपिणी । सेयं प्रगृह्यतां राजन् कल्याणी महिषी तव ॥ ३०॥ जनयिष्यति यं पुत्रमियं राज्ञी शकुन्तला । चक्रवर्ती राजराजो महात्मा स भविष्यति ॥ ३१ ॥ इत्याशिषा नियुज्य त्वां गुरुराह महातपाः ।