पृष्ठम्:मनोहरकाव्यमाला.pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६८ )

राजन् सत्यं परं ब्रह्म सत्यं च समयः परम् ।
मात्याक्षीः समयं राजन् सत्यं सङ्गतमस्तु ते ॥ २० ॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत् स्वयम् ।
कण्वस्यैवाश्रमं गच्छे त्वादृशे नास्ति संगतम् ॥ २१ ॥
ऋतेऽपि त्वां महाराज शैलराजावतंसकाम् ।
चतुर्वर्णामिमामुर्वीं पुत्रो मे पालयिष्यति ।
मुनेः कण्वस्य वै वाक्यं भविता कथमन्यथा ॥ २२ ॥

राजोवाच-

किं नालपन्ति पुंश्चल्य एवमेव सुदुर्व्वचः ।
याहि त्वं गच्छ वाचाटे दूषयिष्यन्ति मां जनाः ॥ २३ ॥/poem>
पुरोहित उवाच-
<poem>अत्र वक्ष्यामि ते मन्त्रं शृणु राजन् महामते ।
यावत्प्रसवमत्रैव नारी तिष्ठतु ते गृहे ॥ २४ ॥
यदि ते सदृशं पुत्रं कामिन्येषा प्रसोष्यति ।
ततस्तवैव भार्य्येति वेत्स्यामस्तदनन्तरम् ।
शालिबीजाद्विजायेत न कदाचिद्यवाङ्कुरः ॥ २५ ॥

राजोवाच-

नैषा शुद्धान्तमध्येऽपि मम वासमिहार्हति ।
संसर्गादपि पुंश्चल्यो दूषयन्ति कुलस्त्रियः ॥ २६ ॥

पुरोहित उवाच-

अदृष्टतनयास्योसि राजराजोऽपि भूतले ।
अतस्ते सन्ततौ श्रद्धा राजन् मे जायतेऽधिका ॥ २७ ॥
इयं साध्वी वरारोहा कण्वेन परिपालिता ।
व्यभिचारमतो राजन्नाहं मन्ये मनागपि ॥ २८ ॥
यावत्प्रसवप्रेतान्तु वासयेऽहं निजालये।
प्रसवे सति कल्याणीं स्वमेव गृहीष्यसि ॥ २९ ॥