पृष्ठम्:मनोहरकाव्यमाला.pdf/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७० )

विक्रेतुमुद्यतः पापो मया दृष्टो महीपते ॥ ५ ॥
राजा तं प्राह दाशेदं कुतो लब्धमिदं त्वया ।
कथयाभयमेतत्ते दत्तं जानीहि सांप्रतम् ॥ ६ ॥

धीवर उवाच-

जात्याहं घीवरो राजन् मत्स्यमात्रोपजीवकः ।
चौरिकां नैव जानामि न च सूनां न धूर्त्तताम् ।
जालेन मत्स्यान् बध्नामि सरस्वत्या हि रोधसि ॥ ७ ॥
एकदा जालमातत्य सरस्वत्यामहं नृप ।
स्थितः प्रत्याशया तत्रतीरस्थं तरुमाश्रितः ॥ ८ ॥
रोहितः कोऽपि बलवान् जाले बद्धो बभूव ह ।
ततोऽहं जालमुत्तार्य दृष्ट्वा रोहितमुद्धतम् ॥ ९ ॥
खड़ेन कृत्तवान् सद्यः परमानन्दनिर्वृतः ।
ततस्तदुदरे लब्धमेतद्भपाङ्गुरीयकम् ॥ १० ॥
कस्येति न विजानामि तदहं नगरे तव ।
विक्रेतुमागतो बद्धो भटेनानेन भूमिप ॥ ११ ॥

राजोवाच-

देहि पश्यामि कस्यैतत् किं रूपमङ्गुरीयकम् ।
त्वमेतन्मूल्यमागृह्य सुखेनैव व्रजालयम् ॥ १२ ॥
इत्युक्त्वा पाणिनादाय यावद्राजा स पश्यति ।
निपतन्ति स्म नेत्राभ्यां तावदेवाश्रुबिन्दवः ॥ १३ ॥
प्रेयसीं तामनुस्मृत्य तथा गान्धर्वकर्म च ।
गर्भाधानञ्च सर्वं तत् मूर्च्छितो निपपात ह ॥ १४ ॥
तदा पुरोहितामात्या भृशमुद्विग्नचेतसः ।
उत्थाप्य तं महीपालं निवेश्य च वरासने ॥
लब्धसंज्ञं शनैर्ब्रह्मन् पप्रच्छुः किमिदं तव ॥ १५ ॥
दुष्यन्तोऽपि समाश्वस्य प्रेयसीं तामनुस्मरन् ।