पृष्ठम्:मनोहरकाव्यमाला.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७४ )

बालस्तु तावद्वेगेन प्रविश्य गहनं वनम् ।
निबध्य पञ्च पञ्चास्यान् लताभिः समुपानयत् ॥ ४ ॥
उवाच वृद्धामेतेषां कात दन्ताः समुन्नताः।
निम्ना वा कति मध्या वा गणयित्वा वदाशु मे ॥ ५ ॥
दुष्यन्तस्तु तदालक्ष्य बालस्याद्भुतविक्रमम् ।
चिन्तयामास मेधावी भार्याविरहकातरः ॥ ६ ॥
पौरवादप्यहो बालो धत्तेऽधिकपराक्रमम् ।
सर्वराजश्रियायुक्तो न विप्रस्तदयं भवेत् ॥ ७ ॥
चेतो मे वहते स्नेहं दृष्ट्वा बालं दुरासदम् ।
कारणं तत्र पश्यामि यन्ममेयमपुत्रता ॥ ८ ॥
इति चिन्तापरे राज्ञि सिंहः कोऽपि स्वबन्धनम् ।
छित्त्वा नखेन दुर्वार्यो गन्तुं प्राक्रमत द्विज ॥ ९ ॥
दूरादुत्प्लुत्य तं बालो निगृह्य पुनरेव तम् ।
उवाच किं रे पञ्चास्य प्राप्तोऽसि ब्रह्मबालकम् ।
पौरवोऽस्मि न जानासि क्षत्रियो रणकोविदः ॥ १० ॥
तदुपश्रुत्य राजर्षेः किञ्चिदुच्छ्वसितं मनः ।
बालभाषितमित्येव सम्यक् श्रद्धापि नाभवत् ॥ ११ ॥
अथागमत् काश्यपोऽपि वनात्कुशसमिद्धरः।
विलोक्य तत्र राजानं दुष्यन्तं मुमुदे भृशम् ॥ १२ ॥
आशीर्भिस्तमथाभ्यर्च्य विधायातिथिसत्क्रियाम् ।
पप्रच्छ कुशलं राज्ये देवानाञ्च तपोधनः ॥ १३॥
राजा तत्सर्वमाचष्टे मुनिवाचा गतश्रमः ।
अथोवाच विहस्येषत् कोऽयं बालस्तपोधन ।
महाबलो महाबाहुः पौरवोऽहमिति ब्रुवन् ॥ १४ ॥

कश्यप उवाच-

तवैव तनयो राजन् यमसूत शकुन्तला ।