पृष्ठम्:मनोहरकाव्यमाला.pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९०)

इति निश्चित्य मनसा शरणागतवत्सलम् ॥
आकृष्यमाणे वसने द्रौपदी कृष्णमस्मरत् ॥ ४२ ॥
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ॥ ४३ ॥
हा कृष्ण द्वारकावासिन्क्वासि यादवनन्दन ।
इमामवस्थां संप्राप्तामनाथां किमुपेक्षसे ॥ ४४ ॥
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय ।
कौरवैः परिभूतां मां किं न जानासि केशव ॥ ४५ ॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥ ४६ ॥
कृष्णकृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम् ॥ ४७ ॥
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ।
प्रारुदद् दुःखिता राजन्मुखमाच्छाद्य भामिनी" ॥ ४८ ॥
तस्य प्रसादाद् द्रौपद्याः कृष्यमाणेऽम्बरे तदा ।
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ ४९ ॥
नानारागविरागाणि वसनान्यथ वै प्रभो ।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ॥ ५० ॥
ततो हलहलाशब्दस्तत्रासीद्धोरदर्शनः ।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ॥ ५१ ॥
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् ।
'घिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति ॥ ५२ ॥
यदा तु वाससां राशिः सभामध्ये समाचितः।'
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ ५३ ॥
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ॥ ५४ ॥