पृष्ठम्:मनोहरकाव्यमाला.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९७ ) दासीभूतां त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति ॥ २२ ॥ प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थः । पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद्ग्लहेषु ॥ २३ ॥

वैशंपायन उवाच- तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽऽर्तरूपः । राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥ २४ ॥

भीम उवाच- नाहं कुप्ये सूतपुत्रस्य राज- न्नेष सत्यं दासधर्मः प्रदिष्टः । किं विद्विषो वै मामेवं व्याहरेयु- र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ २५ ॥

वैशंपायन उवाच- भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा । युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतनम् ॥ २६ ॥ भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने । प्रश्नं हि च कृष्णां त्वमजितां यदि मन्यसे ॥ २७ ॥ एवमुक्त्वा तु कौन्तेयमपोह्य वसनं स्वकम् । स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥ २८॥ कदलीदण्डसदृशं सर्वलक्षणसंयुतम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ २९ ॥ अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।