पृष्ठम्:मनोहरकाव्यमाला.pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९८ ) द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ ३०॥ भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ ३१ ॥ पितृभिः सह सालोक्यं मा स्म गच्छेद् वृकोदरः । यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ ३२ ॥

वैशंपायन उवाच- क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः । वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ ३३ ॥

विदुर उवाच- परं भयं पश्यत भीमसेना- त्तबुध्यध्वं पार्थिवाः प्रातिपेयाः । दैवेरितो नूनमयं पुरस्ता- त्परोऽनयो भरतेषूदपादि ॥ ३४ ॥ अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम् । योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्र्यन्ति ॥ ३५ ॥ इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्संप्रदुष्येत् । इमां चेत्पूर्वं कितवोऽग्लहिष्य- दीशोऽभविष्यदपराजितात्मा ॥ ३६ ॥ स्वप्ने यथैतद्विजितं धनं स्या- देवं मन्ये यस्य दीव्यत्यनीशः । गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात ॥ ३७ ॥