पृष्ठम्:मनोहरकाव्यमाला.pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९९ ) दुर्योधन उवाच- भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव युधिष्ठिरं ते प्रवदन्त्वनीश- मथो दास्यान्मोदयसे याज्ञसेनि ॥ ३८ ॥

अर्जुन उवाच- ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा । ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥ ३९ ॥

कर्ण उवाच दुश्शासन निवोधेदं वचनं वै प्रभाषितम् । किमनेन चिरं वीर नयस्व दुपदात्मजाम् ॥ दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥ ४० ॥

वैशंपायन उवाच- ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥ ४१ ॥ ततो दुश्शासनस्तूर्णे द्रुपदस्य सुतां बलात् । प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥ ४२ ॥ ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ।

द्रौपद्युवाच- परित्रायस्व मां भीष्म द्रोण द्रौणे तथा कृप ॥ ४३ ॥ परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल । धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् ॥ ४४ ॥ . गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि । परित्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥ ४५ ॥