पृष्ठम्:मनोहरकाव्यमाला.pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०० ) त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् । क्लिश्यमानामनार्येण न त्रायसि वधूं स्वकाम् ॥ ४६ ॥ यदि लालप्यमानां मां न कश्चित्किंचिदब्रवीत् । हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥ ४७ ॥ न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् । न वायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥ धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥ ४८ ॥

विदुर उवाच- शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किंचिदपि ब्रुवन्ति । सा त्वं प्रियार्थं शृणु वाक्यमेत- द्यदुच्यते पापमतिः कृतघ्नः ॥ ४९ ॥ सुयोधनः सानुचरः सुदुष्टः सहैव राजा निकृतः सूनुना च । यद्येष वाचं महदुच्यमानां न श्रोष्यते पापमतिः सुदुष्टः ॥ ५० ॥

वैशंपायन उवाच- इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम् । मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥ ५१ ॥

वैशंपायन उवाच- तमेवमुक्त्वा प्रथमं धृतराष्ट्र मुवाच ह ।

विदुर उवाच- यद्येवं त्वं महाराज संक्लेशयसि द्रौपदीम् ॥ ५२ ॥ अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः ।