पृष्ठम्:मनोहरकाव्यमाला.pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०१ ) गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥ ५३ ॥ भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च । तस्मानिवारय सुतं मा विनाशं विचिन्तय ॥ ५४ ॥

वैशंपायन उवाच- एतच्छ्रुत्वा मन्दबुद्धिर्नोत्तरं किंचिदब्रवीत् । ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥ ५५ ॥ अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः । उरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥ ५६ ॥ ऊरौ संदर्यमाने तु निरीक्ष्य तु सुयोधनम् । वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥ ५७ ॥ एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी । राजानुजः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥ ५८ । अहं दुर्योधनं हन्ता कर्णे हन्ता धनञ्जयः । शकुनि चाक्षकितवं सहदेवो हनिष्यति ॥ ५९ ॥ इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ ६०॥ सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि । शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ ६१ ॥ वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः । दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥ ६२ ॥

अर्जुन उवाच- भीमसेन न ते सन्ति येषां वैरं त्वया सह । मन्दा गृहेषु सुखिनो न बुद्ध्यन्ते महद्भयम् ॥ ६३ ॥ नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।