पृष्ठम्:मनोहरकाव्यमाला.pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०२ ) यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥ ६४ ॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ६५ ॥ असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् । भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥ ६६ ॥ कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः । ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः । तान्स्म सर्वाञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥ ६७ ॥ चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ ६८ ॥

वैशंपायन उवाच- इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ ६९ ॥ सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् । क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥ ७० ॥

सहदेव उवाच- यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर । नैते ह्यक्षाः शिता बाणास्त्वयैते समरे धृताः ॥ ७१ ॥ यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः । यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ ७२ ॥

वैशंपायन उवाच- सहदेववचः श्रुत्वा नकुलोऽपि विशांपते । दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ ७३ ॥

नकुल उवाच सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।