पृष्ठम्:मनोहरकाव्यमाला.pdf/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०३ ) यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥ ७४ ॥ धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षुन्कालचोदितान् । दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ ७५ ॥ उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् । हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥ ७६॥ निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ ७७ ॥

द्रौपद्युवाच- यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे । तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥ ७ ॥ यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् । तस्माद् रुधिरमेवास्य पास्यते वै वृकोदरः ॥ ७९ ॥ इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम् । सामात्यं सपरिवारं हनिष्यति धनञ्जयः ॥ ८० ॥ क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् । सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥ ८१ ॥

वैशंपायन उवाच- एवमुक्ते तु वचने द्रौपद्या धर्मशीलया । ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापतत् ॥ ८२ ॥ तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः । अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ ८३ ॥

सावित्र्युपाख्यानम् ।

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः । ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः ॥ १ ॥