पृष्ठम्:मनोहरकाव्यमाला.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०४ ) यज्वा दानपतिर्दक्षः पौरजानपदप्रियः । पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ २ ॥ क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः । अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ ३ ॥ अपत्योत्पादनार्थं व तीव्रं नियममास्थितः । काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥ ४ ॥ हुत्वा शतसहस्रं स सावित्र्या राजसत्तम । पष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥ ५ ॥ एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु । पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ ६ ॥ रूपिणी तु तदा राजन्दर्शयामास तं नृपम् । अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ॥ ७ ॥ उवाच चैनं वरदावचनं पार्थिवं तदा । सा तमश्वपतिं राजन्सावित्री नियमेस्थितम् ॥ ८ ॥ वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम् । न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥ ९ ॥

अश्वपतिरुवाच- तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम् । संतानं परमो धर्म इत्याहुर्मां द्विजातयः ॥ १० ॥

सावित्र्युवाच- पूर्वमेव मया राजन्नभिप्रायमिमं तव । ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥ ११ ॥ प्रसादाञ्चैव तस्मात्ते स्वयंभू विहिताद्भुवि । कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ १२ ॥ प्राप्ते काले तु सुषुवे कन्यां तद्राजमहिषी । क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ॥ १३ ॥