पृष्ठम्:मनोहरकाव्यमाला.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०५ ) सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि । सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ १४ ॥ सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा । कालेन चापि सा कन्या यौवनस्था बभूवह ॥ १५ ॥ यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् । अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ १६ ॥

राजोवाच- पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् । स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ १७ ॥ प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम । विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ १८ ॥ एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः । व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥ १९ ॥ साऽभिवाद्य पितुः पादौ व्रीडितेव तपस्विनी । प्रितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ २० ॥ मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम् । वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ २१ ॥ एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा । कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥ २२ ॥ ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा । आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ २३ ॥ नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा । उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥ २४ ॥

नारद उवाच- क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप । किमर्थं युवती भर्त्रे न चैनां संप्रयच्छसि ॥ २५ ॥