पृष्ठम्:मनोहरकाव्यमाला.pdf/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०७ ) नारद उवाच- सांकृते रन्तिदेवस्य स्वशक्त्या दानतः समः । ब्रह्मण्यः सत्यवादी च शिविरौशीनरो यथा ॥ ३६ ॥ ययातिरिव चोदारः सोमवत्प्रियदर्शनः । रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३७ ॥ स वदान्यः स तेजस्वी धीमांश्चैव क्षमान्वितः । स दान्तः स मृदुः शूरः ससत्यः संयतेन्द्रियः ॥ सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ॥ ३८ ॥

राजोवाच- गुणैरूपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे । दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ ३९ ॥

नारद उवाच- एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति । स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥ ४० ॥ एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान् । संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ ४१ ॥

राजोवाच- एहि सावित्रि गच्छस्व अन्यं वरय शोभने । तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥ ४२ ॥ यथा मे भगवानाह नारदो देवसत्कृतः। संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ ४३ ॥

सावित्र्युवाच- सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥ ४४ ॥ दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा । सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ४५ ॥