पृष्ठम्:मनोहरकाव्यमाला.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २११ ) एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम ॥ ७९ ॥ व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया । आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ॥ ८० ॥

सावित्र्युवाच- अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया । एष मे हृदि संकल्पः समयश्च कृतो मया ॥ ८१ ॥ एवं संभाषमाणायाः सावित्र्या भोजनं प्रति । स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ ८२ ॥ सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि । सह त्वया गमिष्यामि न हि त्वां हातुमुत्सहे ॥ ८३ ॥

सत्यवानुवाच- वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि। व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ ८४ ॥

सावित्र्युवाच- उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः । गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥ ८५ ॥

सत्यवानुवाच- यदि ते गमनोत्साहः करिष्यामि तव प्रियम् । मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ ८६ ॥ साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता । अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ ८७ ॥ इच्छेयमभ्यनुज्ञाता आर्ययाश्वशुरेण ह । अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः ॥ ८८ ॥ गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव । न निवार्योऽनिवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ ८९ ॥ संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात् ।