पृष्ठम्:मनोहरकाव्यमाला.pdf/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१२) वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ ९० ॥

द्युमत्सेन उवाच-

यदा प्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ ९१ ॥
तदेषा लभतां कामं यथाभिलषितं वधूः ।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ ९२ ॥
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सह भर्ता हसन्तीव हृदयेन विदूयता ॥ ९३ ॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी ।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥ ९४ ॥
अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥ ९५ ॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ ९६ ॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।
व्यायामेन ममानेन जाता शिरसि वेदना ॥ ९७ ॥
अङ्गानि चैव सावित्री हृदयं दूयतीव च ।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ ९८ ॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् ।
भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम ।
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥ ९९ ॥
सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥ १०० ॥
ततः सा नारदवचो विमृशन्ती तपस्विनी।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥ १०१ ॥
'हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती ।