पृष्ठम्:मनोहरकाव्यमाला.pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१३ ) मूहूर्तादेव चापश्यत्पुरुषं रक्तवाससम् । बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥ १०२ ॥ श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् । स्थितं सत्यवतःपार्श्वे निरीक्षन्तं तमेव च ॥ १०३ ॥ तं दृष्ट्वा सहसोत्थाय भर्तुर्न्य॑स्य शनैः शिरः । कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥ १०४ ॥ दैवतं त्वाऽभिजानामि वपुरेतद्ध्यमानुषम् । कामया ब्रूहि देवेश कस्त्वं किं च चिर्कीषसि ॥ १०५ ॥

यम उवाच- पतिव्रताऽसि सावित्रि तथैव च तपोन्विता । अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ १०६ ॥ अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः । नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥ १०७ ॥

सावित्र्युवाच- श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् । नेतुं किल भवान्कस्मादागतोऽसि स्वयं प्रभो ॥ १०८ ॥

यम उवाच- अयं च धर्मसंयुक्तो रूपवान्गुणसागरः । नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥ १०९ ॥ ततः सत्यवतः कायात्पाशबद्धं वशंगतम् । अङ्गुष्ठमात्रं पुरुषं निधकर्ष यमो बलात् ॥ ११० ॥ ततः समुद्धृतप्राणं गतश्वासं हृतप्रभम् । निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥ १११ ॥ यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः । सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥ ११२ ॥ भर्तुः शरीररक्षां च विधातुं हि तपस्विनी ।