पृष्ठम्:मनोहरकाव्यमाला.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१४ ) भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा । नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ ११३ ॥

यम उवाच निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् । कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया ॥ ११४ ॥

सावित्र्युवाच- यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति । मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥ ११५ ॥ तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च । तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ ११६ ॥ प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः । मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ ११७ ॥ नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च । विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ ११८ ॥ एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः । मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ ११९ ॥

यम उवाच- निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया । वरं वृष्णीष्वेह विनाऽस्य जीवितं ददामि ते सर्वमनिन्दिते वरम् ॥ १२० ॥