पृष्ठम्:मनोहरकाव्यमाला.pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१५ ) सावित्र्युवाच- च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे । स लब्ध चक्षुर्बलवान्भवेन्नृप- स्तव प्रसादाज्ज्वलनार्कसंनिभः ॥ १२१ ॥

यम उवाच- ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा । तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥ १२२ ॥

सावित्र्युवाच- श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा । यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥ १२३ ॥ सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते । नचाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥ १२४ ॥

यम उवाच- मनोऽनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम् । विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥ १२५ ॥

सावित्र्युवाच- हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः ।