पृष्ठम्:मनोहरकाव्यमाला.pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१६ ) जह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम् ॥ १२६ ॥

यम उवाच- स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा- न्नच स्वधर्मात्परिहास्यते नृपः । कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥ १२७ ॥

सावित्र्युवाच- प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥ १२८ ॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ १२९ ॥ एवं प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः । सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ १३० ॥

यम उवाच- पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम् । विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥ १३१ ॥

सावित्र्युवाच- ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं तथौरसम् । कुलस्य संतानकरं च यद्भवेत् तृतीयमेतद्वरयामि ते वरम् ॥ १३२ ॥