पृष्ठम्:मनोहरकाव्यमाला.pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१७ ) यम उवाच- कुलस्य संतानकर सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ १३३ ॥

सावित्र्युवाच- न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति । अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥ १३४ ॥ विवस्वतस्त्वं तनयः प्रतापवां- स्ततो हि वैवस्वत उच्यसे वुधैः । समेन धर्मेण चरन्ति ताः प्रजा- स्ततस्तवेहेश्वर धर्मराजता ॥ १३५ ॥ आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः। तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ १३६ ॥ सौहृदात्सर्वभूतानां विश्वासो नाम जायते । तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ १३७ ॥

यम उवाच- उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया । अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥ १३८ ॥

सावित्र्युवाच- ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।