पृष्ठम्:मनोहरकाव्यमाला.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१८ ) शतं सुतानां बलवीर्यशालिना- मिदं चतुर्थं वरयामि ते वरम् ॥ १३९ ॥

यम उवाच-

शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले । परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ १४० ॥

सावित्र्युवाच-

सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति । सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥ १४१ ॥ सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति । सन्तो गतिर्भूतभव्यस्य राज- न्सतां मध्ये नावसीदन्ति सन्तः ॥ १४२ ॥ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् । सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः ॥ १४३ ॥ न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः । यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ १४४ ॥

यम उवाच-

यथायथा भाषसे धर्मसंहितं मनोऽनुकूलं सुपदं महार्थवत् ।