पृष्ठम्:मनोहरकाव्यमाला.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१९ ) तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥ १४५ ॥

सावित्र्युवाच-

न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद । वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पति विना ॥ १४६ ॥ न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् । न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् ॥ १४७ ॥ वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः । वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥ १४८ ॥

तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः । धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ १४९ ॥ एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि । तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्थसंहितैः ॥ १५० ॥ अरोगस्तव नेयश्च सिद्धार्थः स भविष्यति । चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति ॥ १४२ ॥ एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् । निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥ १५२ ॥ सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च । जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ १५३ ॥ साभूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च ।