पृष्ठम्:मनोहरकाव्यमाला.pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२० ) उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ १५४ ॥ संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत । प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ॥ १५५ ॥ सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः । क्व चासौ पुरुषः श्यामो योऽसौ मांसं चकर्ष ह ॥ १५६ ॥

सावित्र्युवाच-

सुचिरं त्वं प्रसुप्तोसि ममाङ्के पुरुषर्षभ । गतः स भगवान्देवः प्रजासंयमनो यमः ॥ १५७ ॥ विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मजः । यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ १५८ ॥

सत्यवानुवाच-

कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम् । अपि नाम गुरू तौ हि पश्येऽहं ध्रियमाणकौ ॥ १५९ ॥ पुरा मातुः पितुर्वाऽपि यदि पश्यामिविप्रियम् । न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ १६० ॥ स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ । ब्रुवन्नेवं त्वरायुक्तः सम्प्रायादाश्रमं प्रति ॥ १६१ ॥ एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः । लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥ १६२ ॥ स सर्वानाश्रमान्गत्वा शैव्यया सह भार्यया । पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥ १६३ ॥ ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह । आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ १६४ ॥ दृष्ट्वा चोत्पतिताः सर्वे हर्षें जग्मुश्च ते द्विजाः । कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम् ॥ १६५ ॥ पुत्रेण संगतं त्वां तु चतुष्मन्तं निरीक्ष्य च ।