पृष्ठम्:मनोहरकाव्यमाला.pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२२ )

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम् ॥ १७८ ॥
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ १७९ ॥

ऋषय ऊचुः-

निमज्जमानं व्यसनैरभिद्रुतं
कुलं नरेन्द्रस्य तमोमये हदे ।
त्वया सुशीलव्रतपुण्यया कुलं
समुद्धृतं साध्वि पुनः कुलीनया ॥ १८० ॥
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागता नृपम् ।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम् ॥ १८१ ॥
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम् ।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषाद्बलम् ॥ १८२ ॥
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः ।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ १८३ ॥
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेन पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ १८४ ॥
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् ।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ १८५ ॥
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् ।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहद् बलम् ॥ १८६ ॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वं कृछ्रात्समुद्धृतम् ॥ १८७ ॥
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ॥ २८८ ॥