पृष्ठम्:मनोहरकाव्यमाला.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२३ )

यक्ष-युधिष्ठिर-संवादः ।

१. यक्ष उवाच- किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ १ ॥

युधिष्ठिर उवाच- ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः। धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २ ॥

२.यक्ष उवाच- केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् । केनस्विद्द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ ३ ॥

युधिष्ठिर उवाच- श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ ४ ॥

३.यक्ष उवाच- किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ५ ॥

युधिष्ठिर उवाच- स्वाध्याय एषां देवत्वं तप एषां सतामिव । मरणं मानुषो भावः परिवादोऽसतामिव ॥ ६ ॥

४. यक्ष उवाच- किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ७ ॥

युधिष्ठिर उवाच- इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव । भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ८ ॥