पृष्ठम्:मनोहरकाव्यमाला.pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२४ ) ५. यक्ष उवाच- किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ ९ ॥

युधिष्ठिर उवाच- प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः । ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ १० ॥

६. यक्ष उवाच- किंस्विदावपतां श्रेष्ठं किंस्विन्निर्वपतां वरम् । किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् ॥ ११ ॥

युधिष्ठिर उवाच- वर्षमावपतां श्रेष्ठं बीजं निर्वपतां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ १२ ॥

७. यक्ष उवाच- इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ १३ ॥

युधिष्ठिर उवाच- देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न र्निवपति पञ्चानामुच्छ्वसन्न स जीवति ॥ १४ ॥

८.यक्ष उवाच- किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् । किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ १५ ॥

युधिष्ठिर उवाच- माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा । मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ १६ ॥

९. यक्ष उवाच- किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते ।