पृष्ठम्:मनोहरकाव्यमाला.pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२५ ) कस्यस्विद्धृदयं नास्ति कास्विद्वेगेन वर्धते ॥ १७ ॥

युधिष्ठिर उवाच- मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते । अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ १८ ॥

१०. यक्ष उवाच- किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः। आतुरस्य च किं मित्रं किंखिन्मित्रं मरिष्यतः ॥ १९ ॥

युधिष्ठिर उवाच- विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः। आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ २० ॥

११. यक्ष उवाच- कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् । अमृतं किंस्विद्राजेन्द्र किंस्वित्सर्वमिदं जगत् ॥ २१ ॥

युधिष्ठिर उवाच- अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् । सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ २२ ॥

१२. यक्ष उवाच- किंस्विदेको विचरते जातः को जायते पुनः । किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ २३ ॥

युधिष्ठिर उवाच- सूर्यो एको विचरते चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥ २४ ॥

१३. यक्ष उवाच- किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः । किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ २५ ॥