पृष्ठम्:मनोहरकाव्यमाला.pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२६ ) युधिष्ठिर उवाच- दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ २६ ॥

१४. यक्ष उवाच- किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा । उपजीवनं च किंस्वित्य किंस्विदस्य परायणम् ॥ २७ ॥

युधिष्ठिर उवाच- पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ २८ ॥

१५. यक्ष उवाच- धन्यानामुत्तमं किंस्विद्धनानां स्याकिमुत्तमम् । लाभानामुत्तमं किं स्यात्सुखानां स्यात्किमुत्तमम् ॥ २९ ॥

युधिष्ठिर उवाच- धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ ३० ॥

१६. यक्ष उवाच- किंस्विद्धर्मपरं लोके कश्च धर्मः सदाफलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ३१ ॥

युधिष्ठिर उवाच- आनृशंस्यं परं धर्मात्त्रेताधर्मः सदाफलः । मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ ३२ ॥

१७. यक्ष उवाच- किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ३३ ॥

युधिष्ठिर उवाच- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।