पृष्ठम्:मनोहरकाव्यमाला.pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३२ ) ३५. यक्ष उवाच-

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु ॥ ७९ ॥

युधिष्ठिर उवाच-

श्यामो य एष रक्ताक्षो वृहत्साल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ ८० ॥

३६. यक्ष उवाच-

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ८१ ॥
तस्य नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ८२ ॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ८३ ॥

युधिष्ठिर उवाच-

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ ८४ ॥
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ५ ॥
धर्मशीलः सदा राजा इति मां मानवाः विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ८६ ॥
कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥ ८७ ॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ८८ ॥

३७. यक्ष उवाच-

यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ८९ ॥