पृष्ठम्:मनोहरकाव्यमाला.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 ( १२ ) देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् । अवेक्षमाणः को धर्मे त्यजेत्पुत्रमकारणात् ॥ ५४ ॥ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरम् ॥ ५५ ॥ यावदेव न जानाति कश्चिदर्थमिमं नरः । तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ५६ ॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव । कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ५७ ॥ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ । करिष्यामि शरैस्तीपणैर्यदि स्थास्यति विप्रिये ।। ५८ ।। भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति । सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते ॥ ५६ ॥ प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता । अमित्रभूतो निःसंगं बध्यतां वध्यतामपि ॥ ६०॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्ये भवति शासनम् ॥ ११ ॥ वलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम । दातुमिच्छति कैकेय्यै उपस्थितमिदं तव ॥ ६२ ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् । कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ ६३ ॥ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः । सत्येन धनुषा चैव दत्तेनेप्टेन ते शपे ॥ ६४ ॥ दीप्तमग्निमरण्यं वा यदि रामः प्रवक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय । ६५ ।। हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्य राघवश्व पश्यतु ॥ ६६ ॥