पृष्ठम्:मनोहरकाव्यमाला.pdf/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३ ) हरिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् । कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ ६७ ॥ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच राम कौसल्या रुदती शोकलालसा ॥ ६॥ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया । यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते ॥ ६ ॥ न चाधर्म्ये वचः श्रुत्वा सपत्न्या मम भाषितम् । विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ ७० ॥ धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि । शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ ७१ ।। शुश्रूषुर्जननी पुत्र स्वगृहे नियतो वसन् । परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ ७२ ॥ यथैव राजा पूज्यस्ते गौरवण तथा ह्यहम् । त्वां साहं नानुजानामि न गन्तव्यभितो वनम् ॥ ७३ ॥ त्वद्वियोगान मे कार्य जीवितेन सुखेन च । त्वया सह मम श्रेयस्तुणानामपि भक्षणम् ।। ७४ ॥ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् । अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम् ।। ७५ ॥ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् । ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ॥ ७६ ॥ विलपन्ती तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ ७७ ॥ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम । प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ७ ॥ ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा । गौर्हता जानता धर्म कण्डुना च विपश्चिता ॥ ७ ॥