पृष्ठम्:मनोहरकाव्यमाला.pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४ ) अकस्माकं तु कुले पूर्व सगरस्याज्ञया पितुः । खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥ ८०॥ जामदग्न्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुनारण्ये पितुर्वचनकारणात् ।। ८२ ॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् । पितुर्वचनमक्लीवं करिष्यामि पितुर्हितम् ॥ ८२ ॥ न खल्वेतन्मयैकेन क्रियते पितृशासनम् । एतैरपि कृतं देवि ये मया परिकीर्तिताः ॥३॥ नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये । पूर्वरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ८४ ॥ तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा । पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ५ ॥ तामेवमुक्त्वा जननी लक्ष्मणं पुनरब्रवीत् । वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ८॥ तव लक्ष्मण जानामि मयि हमनुत्तमम् । विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ८७ ॥ मम मातुर्महद्दुःखमतुलं शुभलक्षण । अभिप्रायन विज्ञाय सत्यस्य च शमस्य च ॥ ८ ॥ धर्मो हि परमो लोके धर्म सत्यं प्रतिष्ठितम् । धर्मसंश्रितमप्येतत्पितुर्वचनमुत्तमम् ।। ८६ ।। संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ।।६० ॥ सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् । पितुर्हि वचनाद्वीर कैकेय्या प्रचोदितः ॥ ६१ ।। तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् । धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ।। ६२॥ !