पृष्ठम्:मनोहरकाव्यमाला.pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः । उवाच भूयः कौसल्या प्राञ्जलिः शिरसा नतः ॥ १३ ॥ अनुमन्यस्व मां देवि गमिष्यन्तमितो धनम् । शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥४॥ तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् । ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ६५ ।। शोकः संधार्यतां मातर्हदये साधु मा शुचः । वनवासादिहेष्यामि पुनः कृत्वा पितुर्वचः॥६६॥ त्वया मया च वैदेह्या लक्ष्मणन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ १७ ॥ अम्ब संभृत्य संभारान्दुःख हदि निगृह्य च । वनवासकृता वुद्धिर्मम धानुवर्त्यताम् ॥ ८ ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्ययमविक्लवं च । मृतेव संज्ञा प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ ६६ ॥ यथैव ते पुत्र पिता तथा गुरुः स्वधर्मेण सुहृत्तया च । न त्वानुजानामि न मां विहाय सुदुःखितामहसि पुत्र गन्तुम् ॥ १०० ।। किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन । श्रेयो मुहूर्तं तव सन्निधान ममैव कृत्वादपि जीवलोकात् ॥ १०१ ॥ नरैरिवोल्काभिरपोहमानो महागजो ध्वान्तमभिप्रविष्टः ।