पृष्ठम्:मनोहरकाव्यमाला.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः॥ १०२ ॥ स मातरं चैव विसंज्ञकल्प- मार्तं च सौमित्रिमभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ १०३ ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च । मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ १०४ ॥ धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु । ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्यामिमता सपुत्रा ॥ १०५ ॥ यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात्तदुपक्रमेत । द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वति न प्रशस्ता ॥ १०६॥ गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षादथवापि कामात् । यद्यादिशेत्कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥ १०७ ॥ न तेन शक्नोमि पितुः प्रतिक्षा- मिमां न कर्तु सकलां यथावत् । स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः ॥ १०८ ॥ 1